कल्ये बुध्यति मम जननी पश्चान्मामपि लिरिक्स

कल्ये बुध्यति मम जननी पश्चान्मामपि लिरिक्स

कल्ये बुध्यति मम जननी,
पश्चान्मामपि बोधयति,
कल्ये बुध्यति मम जननी,
पश्चान्मामपि बोधयति।

उष्णजलेनाप्लावयति,
नववसनं सा परिधारयति,
उष्णजलेनाप्लावयति,
नववसनं सा परिधारयति।

फाले तिलकं धारयति,
पुनरक्ष्णोरञ्जनमालिखति,
सुन्दरकुण्डलयुगलेनाम्बा,
कर्णद्वयमपि भूषयति।

पात्रे भोजनमानयति,
माम् अङ्के दृढमुपवेशयति,
तत्करनिर्मितमन्नग्रासं,
मामकवदने स्थापयति।

काककथां मां श्रावयति सा,
शौनककथया भाययति,
श्रुत्वा रोदितुमुद्युक्ते,
मयि गण्डे चुम्बनमर्पयति।



ऐसे ही अन्य मधुर भजन देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन खोजे

Next Post Previous Post