अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा लिरिक्स

अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा लिरिक्स

अवनितलं पुनरवतीर्णा स्यात,
संस्कृतगङ्गाधारा,
धीरभगीरथवंशोऽस्माकं,
वयं तु कृतनिर्धारा:।

निपततु पण्डितहरशिरसि,
प्रवहतु नित्यमिदं वचसि,
प्रविशतु वैयाकरणमुखं,
पुनरपि वहताज्जनमनसि,
पुत्रसहस्रं समुद्धृतं स्यात,
यान्तु च जन्मविकारा:।
   
ग्रामं ग्रामं गच्छाम,
संस्कृतशिक्षां यच्छाम,
सर्वेषामपि तृप्तिहितार्थं,
स्वक्लेशं न हि गणयेम,
कृते प्रयत्ने किं न लभेत,
एवं सन्ति विचारा:।

या माता संस्कृतिमूला,
यस्या व्याप्तिस्सुविशाला,
वाङ्मयरूपा सा भवतु,
लसतु चिरं सा वाङ्माला,
सुरवाणीं जनवाणीं कर्तुं,
यतामहे कृतिशूरा:।



ऐसे ही अन्य मधुर भजन देखें

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।

अपने पसंद का भजन खोजे

Next Post Previous Post