मीनाक्षी पंचरत्नम्

मीनाक्षी पंचरत्नम्

उद्यद्भानुसहस्रकोटिसदृशां,
केयूरहारोज्ज्वलां,
विम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां,
पीताम्बरालङ्कृताम्,
विष्णुब्रह्मसुरेन्द्रसेवितपदां,
तत्त्वस्वरूपां शिवां,
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं,
कारुण्यवारांनिधिम्।

मुक्ताहारलसत्किरीटरुचिरां,
पूर्णेन्दुवक्त्रप्रभां,
शिञ्जन्नूपुरकिङ्किणीमणिधरां,
पद्मप्रभाभासुराम्,
सर्वाभीष्टफलप्रदां गिरिसुतां,
वाणीरमासेवितां,
मीनाक्षीं प्रणतोऽस्मि,
सन्ततमहं,
कारुण्यवारांनिधिम्।

श्रीविद्यां शिववामभागनिलयां,
ह्रीङ्कारमन्त्रोज्ज्वलां,
श्रीचक्राङ्कितबिन्दुमध्यवसतिं,
श्रीमत्सभानायिकाम्,
श्रीमत्षण्मुखविघ्नराजजननीं,
श्रीमज्जगन्मोहिनीं,
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं,
कारुण्यवारांनिधिम्।

श्रीमत्सुन्दरनायिकां भयहरां,
ज्ञानप्रदां निर्मलां,
श्यामाभां कमलासनार्चितपदां,
नारायणस्यानुजाम्,
वीणावेणुमृदङ्गवाद्यरसिकां,
नानाविधामम्बिकां,
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं,
कारुण्यवारांनिधिम्।

नानायोगिमुनीन्द्रहृत्सुवसतिं,
नानार्थसिद्धिप्रदां,
नानापुष्पविराजिताङ्घ्रियुगलां,
नारायणेनार्चिताम्,
नादब्रह्ममयीं परात्परतरां,
नानार्थतत्त्वात्मिकां,
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं,
कारुण्यवारांनिधिम्।
 



मीनाक्षी पंचरत्नम् l Meenakshi Panchratnam l Adi Shankaracharya l Madhvi Madhukar
Next Post Previous Post