नमस्ते शारदे देवि शारदा स्त्रोतम
नमस्ते शारदे देवि,
काश्मीरपुरवासिनि,
त्वामहं प्रार्थये नित्यं,
विद्यादानं च देहि मे,
विद्यादानं च देहि मे,
या श्रद्धा धारणा मेधा,
वाग्देवी विधिवल्लभा,
भक्तजिह्वाग्रसदना,
शमादिगुणदायिनी,
शमादिगुणदायिनी,
नमामि यामिनीनाथ,
लेखालङ्कृतकुन्तलाम्,
भवानीं भवसन्ताप,
निर्वापणसुधानदीम्,
निर्वापणसुधानदीम्,
भद्रकाल्यै नमो नित्यं,
सरस्वत्यै नमो नमः।
वेदवेदाङ्गवेदान्त,
विद्यास्थानेभ्य एव च,
विद्यास्थानेभ्य एव च,
ब्रह्मस्वरूपा परमा,
ज्योतिरूपा सनातनी,
सर्वविद्याधिदेवी या,
तस्यै वाण्यै नमो नमः,
तस्यै वाण्यै नमो नमः।
यया विना जगत्सर्वं,
शश्वज्जीवन्मृतं भवेत्,
ज्ञानाधिदेवी या तस्यै,
सरस्वत्यै नमो नमः,
सरस्वत्यै नमो नमः।
यया विना जगत्सर्वं,
मूकमुन्मत्तवत्सदा,
या देवी वागधिष्ठात्री,
तस्यै वाण्यै नमो नमः,
तस्यै वाण्यै नमो नमः,
तस्यै वाण्यै नमो नमः।
शारदा स्तोत्रम् Sharada Strotam | Sharda Maa Stotram | Saraswati Bhajan | Sharda Devi Stotram