भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढ़मते लिरिक्स Bhaj Govindam Bhaj Govindam Lyrics

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढ़मते लिरिक्स Bhaj Govindam Bhaj Govindam Lyrics

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढ़मते लिरिक्स Bhaj Govindam Bhaj Govindam Lyrics

भज गोविन्दं भज गोविन्दं, गोविन्दं भज मूढ़मते
सम्प्राप्ते सन्निहिते मरणे, नहि नहि रक्षति डुकृञ् करणे

मूढ़ जहीहि धनागमतृष्णां, कुरु सद्बुद्धिं मनसि वितृष्णाम्।
यल्लभसे निजकर्मोपात्तं, वित्तं तेन विनोदय चित्तम्

नारीस्तनभरनाभीनिवेशं, दृष्ट्वा- माया-मोहावेशम्।
एतन्मांस-वसादि-विकारं, मनसि विचिन्तय बारम्बाररम्

नलिनीदलगतसलिलं तरलं, तद्वज्जीवितमतिशय चपलम्
विद्धि व्याध्यभिमानग्रस्तं, लोकं शोकहतं च समस्तम्

यावद्वित्तोपार्जनसक्त:, तावत् निज परिवारो रक्तः
पश्चात् धावति जर्जर देहे, वार्तां पृच्छति कोऽपि न गेहे

यावत्पवनो निवसति देहे तावत् पृच्छति कुशलं गेहे
गतवति वायौ देहापाये, भार्या बिभ्यति तस्मिन्काये

बालस्तावत् क्रीडासक्तः, तरुणस्तावत् तरुणीसक्तः
वृद्धस्तावत् चिन्तामग्नः पारे ब्रह्मणि कोऽपि न लग्नः

का ते कांता कस्ते पुत्रः, संसारोऽयं अतीव विचित्रः
कस्य त्वं कः कुत अयातः तत्त्वं चिन्तय यदिदं भ्रातः

सत्संगत्वे निःसंगत्वं, निःसंगत्वे निर्मोहत्वं
निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः
क्षीणे वित्ते कः परिवारो ज्ञाते तत्त्वे कः संसारः

मा कुरु धन-जन-यौवन-गर्वं, हरति निमेषात्कालः सर्वम्
मायामयमिदमखिलं हित्वा ब्रह्म पदं त्वं प्रविश विदित्वा

दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चति आशावायुः

का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता
त्रिजगति सज्जन संगतिरेका भवति भवार्णवतरणे नौका

जटिलो मुण्डी लुञ्चित केशः काषायाम्बर-बहुकृतवेषः
पश्यन्नपि च न पश्यति मूढः उदरनिमित्तं बहुकृत शोकः

अङ्गं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम्
वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम्

अग्रे वह्निः पृष्ठेभानुः रात्रौ चिबुक- समर्पित-जानुः
करतलभिक्षा तरुतलवासः तदपि न मुञ्चति आशापाशः

कुरुते गंगासागरगमनं व्रतपरिपालनमथवा दानम्
ज्ञानविहिनः सर्वमतेन मुक्तिः न भवति जन्मशतेन


सुर-मन्दिर-तरु-मूल- निवासः शय्या भूतलमजिनं वासः
सर्व-परिग्रह-भोग-त्यागः कस्य सुखं न करोति विरागः

योगरतो वा भोगरतो वा संगरतो वा संगविहीनः
यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दति एव

भगवद्गीता किञ्चिदधीता गंगा- जल-लव-कणिका-पीता
सकृदपि येन मुरारिसमर्चा तस्य यमः किं कुरुते चर्चाम्

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्
इह संसारे बहुदुस्तारे कृपयापारे पाहि मुरारे

रथ्याचर्पट-विरचित- कन्थः पुण्यापुण्य-विवर्जित- पन्थः
योगी योगनियोजित चित्तः रमते बालोन्मत्तवदेव

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः
इति परिभावय सर्वमसारम् विश्वं त्यक्त्वा स्वप्नविचारम्

त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि सर्वसहिष्णुः
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम्

शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ
भव समचित्तः सर्वत्र त्वं वाछंसि अचिराद् यदि विष्णुत्वम्

कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं भावय कोऽहम्
आत्मज्ञानविहीना मूढाः ते पच्यन्ते नरकनिगूढाः

गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम्
नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम्

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः।
यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम्

अर्थंमनर्थम् भावय नित्यं नास्ति ततः सुखलेशः सत्यम्
पुत्रादपि धनभजाम् भीतिः सर्वत्रैषा विहिता रीतिः

प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम्
जाप्यसमेत समाधिविधानं कुर्ववधानं महदवधानम्

गुरुचरणाम्बुज निर्भर भक्तः संसारादचिराद्भव मुक्तः
सेन्द्रियमानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम्
 

भज गोविन्दम् | BHAJA GOVINDAM | Most Powerful Krishna Mantra | Janmashtami Special

Bhajagovindam Bhajagovindam
Govindam Bhaja Moodhamathe
Samprapte Sannihite Kaale
Nahi Nahi Rakshati Dukrinkarane
Moodha Jaheehi Dhanaagamatrishnaam
Kuru Sadbuddhim Manasi Vitrishnaam
Yallabhase Nijakarmopaattam
Vittam Tena Vinodaya Chittam
Yaavadvittopaarjana saktah
Taavannijaparivaaro Raktah
Paschaajeevati Jarjjaradehe
Vaartaam Kopi Na Prichchati Gehe
Maa Kuru Dhanajanayauvanagarvam
Harati Nimeshaatkaalah Sarvam
Maayaamayamidamakhilam Hitvaa
Brahmapadam Tvam Pravisa Viditvaa
Suramandiratarumoolanivaasah
Sayyaa Bhootalamajinam Vaasah
Sarvaparigraha Bhogatyaagah
Kasya Sukham Na Karoti Viraagah
Bhagavadgeetaa Kinchidadheetaa
Gangaajalalavakanikaa Peetaa
Sakridapi Yena Muraarisamarchaa
Kriyate Tasya Yamena Na Charchaa
Punarapi Jananam Punarapi Maranam
Punarapi Jananeejathare Sayanam
Iha Samsaare Bahudustaare
Kripayapaare Paahi Murare
Geyam Geetaanaamasahasram
Dhyeyam Sreepatiroopamajasram
Neyam Sajjanasange Chittam
Deyam Deenajanaaya Cha Vittam
Arthamanartham Bhaavaya Nityam
Naasti Tatah Sukhalesah Satyam
Putraadapi Dhanabhaajaam Bheetih
Sarvatraishaa Vihitaa Reetih
Gurucharanaambuja Nirbharabhaktah
Samsaaraadachiraadbhava Muktah
Sendriyamaanasaniyamaadevam
Drakshyasi Nijahridayastham Devam

आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
No Comment
Add Comment
comment url