श्री गणेशाष्टकम लिरिक्स हिंदी Shri Ganesh Ashtakam Lyrics Hindi

श्री गणेशाष्टकम लिरिक्स हिंदी Shri Ganesh Ashtakam Lyrics Hindi

श्री गणेशाय नमः ।
सर्वे उचुः ।
यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥१॥
यतश्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनो विश्वगो विश्वगोप्ता ।
तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घा सदा तं गणेशं नमामो भजामः ॥३॥
यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामो भजामः॥४॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः सम्पदो भक्तसन्तोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥५॥
यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥६॥
यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥७॥
यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥८॥

॥ फल श्रुति ॥
श्रीगणेश उवाच ।
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥९॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवानप्नुयात् ॥१०॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद्वन्धगतं राजवध्यं न संशयः ॥११॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितांल्लभते सर्वानेकविंशतिवारतः ॥१२॥
यो जपेत्परया भक्तया गजाननपरो नरः ।
एवमुक्तवा ततो देवश्चान्तर्धानं गतः प्रभुः ॥१३॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकं सम्पूर्णम् ॥
(अनन्तश्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्य "श्री श्रीजी महाराज" द्वारा विरचित)
गणेशं सदा विघ्नबाधा कदम्ब-
प्रणाशे पटुं नित्यशान्तं गभीरम् ।
प्रसन्नम् सुपीनं हरेर्ध्यानमग्नं
महामोदकारं सुदेवं नमामि ।।

विशालं शुभं वक्रतुण्डं मनोज्ञम्
प्रवीणञ्च विज्ञानविद्याकलासु ।
असीमप्रभावं गुणज्ञानकोषं
प्रपूज्यं सदासर्वदेवेषु वन्दे ।।

दयासागर दिव्यधी--दानकक्षम्
सदा साधकेभ्यो मुदा मुक्तहस्तम् ।
शुभारम्भवन्द्यम् प्रियं कान्तिमन्तम्
गणेशं वरेशं सुरेशं नमामि ।।

दधानं करे मोदकं गौरवर्णम्
मणीनां महामालया शोभमानम् ।
उपस्यां जनै-र्भावुकै-र्भव्यरूपं
धिया सेव्यमानं गणेशं नमामि ।।

गणाधीश्वरं सद्गुणाढयं गणेशं
वरिष्ठं महाविघ्नहर्तारमीड्यं ।
विचित्राम्बरं भालचंन्द्रम् गजस्यां
सदा चेतसा चिन्तनीयञ्च वन्दे ।।

सुलम्बोदरं मूसकस्तं मतीशं
प्रसिद्धम् सतामृद्धिसिद्धिप्रसेव्यम् ।
नरिनृत्यमानं हरे: कीर्तने च
प्रसन्नाsननं श्रीगणेशं प्रणौमि ।।

सुदूर्वाड्कुरै रक्तपुष्पै: प्रसन्नम्
श्रुतीनां सुमन्त्रै: सदा सेव्यमानम् ।
समाराध्यमाप्तै र्गुणागाररूपं
गणेशं नुतं भूतयूथै र्नमामि ।।

अहो सुन्दरं शास्त्रसिद्धम् स्वरूपं
महादेवदेवं शरण्यं वरेण्यम् ।
अचिन्त्यम् सुधिवृन्दसेव्यं सुधापं
सदानन्दपूर्णम् गणेशं प्रणौमि ।।

श्रीगणेशाष्टकम् स्तोत्रमृद्धिसिद्धिप्रदायकम् ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ।।

(भुजङ्गप्रयातम्)
अविद्यानिहन्त्रे सुविद्याप्रदात्रे
नमो विघ्नहन्त्रे सदानन्ददात्रे ।
उमाकान्तपुत्राय विघ्नान्तकाय
नमस्ते नमस्तेऽन्तरायान्तकाय ॥ १॥

नमो भालचन्द्राय सिद्धिप्रदाय
चिदानन्दरूपाय दुःखान्तकाय ।
अनन्ताय शान्ताय नागान्तकाय
नमस्ते नमस्तेऽन्तरायान्तकाय ॥ २॥

नमस्ते भवानीसुपुत्राय नित्यं
नमस्ते सदा भक्तचित्तार्तिनाशिन् ।
नमस्ते प्रभो ज्ञानदात्रे नमस्ते
नमस्ते मनोवाञ् छितानन्ददाय ॥ ३॥

सुदूर्वाङ्कुरै रक्तपुष्पर्लसन्तं
सदा मोदकैर्मोदमानं गजास्यम् ।
शमीपत्रतुष्टं सुगन्धप्रियं त्वां
भवाम्भोधिमग्नो भवन्तं भजेऽहम् ॥ ४॥

अनाथार्तिनाशिन् पुरारातिपुत्र
मयूरेश हेरम्ब हे ढुण्ढिराज ।
विनाशाय विघ्नस्य बद्धाञ्जलिस्त्वां
अहं प्रार्थये भक्तियुक्तो गणेश ॥ ५॥

 त्वदीयाय भक्ताय दत्त्वा वरांस्त्वं
शुभैराशिभी रक्ष संसारसिन्धौ ।
अरे सिन्धुरारे दयाब्धे भवाब्धौ
निमग्नं विपन्नं जनं पाहि नित्यम् ॥ ६॥

गणेश त्वदीयं पदाब्जं शरण्यं
प्रसीद प्रसीद प्रभो पाशपाणे ।
वरेण्य प्रभो क्षेमदातर्नमस्ते
सदा प्रार्थये त्वामहं भक्तियुक्तः ॥ ७॥

प्रसीद प्रसीद प्रतापार्क देव
प्रसीद प्रसीदैकदन्त प्रभो त्वम् ।
प्रसीद प्रसीद प्रभो विघ्नहर्तः
प्रसीद प्रसीद प्रभो वक्रतुण्ड ॥ ८॥

भुजङ्गप्रयाते निबद्धं मया यो
गणेशाष्टकं भक्तियक्तश्च चित्ते ।
सदा ध्यायति स्तोत्रमेतत्स धन्यः
सुखं शान्तिमाप्त्वाधिगच्छेत् स पुण्यम् ॥ ९॥

सखारामसूनुर्महादेवशर्मा
लिखित्वा गणेशाष्टकं भक्तियुक्तः ।
परां शान्तिमाप्नोद् विनाशं विपत्ते-
र्मनोवाञ्छितं श्रीगणेशकृपातः ॥ १०॥
इति श्री आपटीकरविरचितं श्रीगणेशाष्टकम् सम्पूर्णम् ।

भजन श्रेणी : श्री गणेश चतुर्थी भजन (Ganesh Chaturthi Bhajan)

Shri Ganesh Ashtakam॥ श्री गणेशाष्टकम् ॥ Shree Ganeshashtakam - Hindi Lyrics | English Lyrics CC

Shri Ganesha Ashtakam Lyrics In English.

Yatho Anantha Shakthir Anathascha Jiva, Yatho Nirgunadha Aprameya Gunasthe,
Yatho Bhathi Saravam Tridha Bedha Binnam, Sada Tham Ganesam Namamo Bhajama ॥ 1 ॥

Yathaschavirasij Jagath Sarvametha, ThadhAub jasano Viswgo Viswagoptha,
Thandendradhayo Deva Sanga Manushya, Sada Tham Ganesam Namamo Bhajama. ॥ 2 ॥

Yatho Vahni Bhanu Bhavo Bhur Jalam Cha, Yatha Sagaraschandrama Vyoma Vayu,
Yatha Sthavara Jangama Vruksha Sangha, Sada Tham Ganesam Namamo Bhajama. ॥ 3 ॥

Yatho Dhanava, Kinnara Yaksha Sangha, Yatha Scharana Varana Swapadascha,
Yatha Pakshi Kita Yatho Virudasha, Sada Tham Ganesam Namamo Bhajama. ॥ 4 ॥

Yatho Budhir Ajnananaso Mumukshor, Yatha Sampadho Bhaktha Santhoshika Syu,
Yatho Vigna Naso, Yatha Karya Sidhi, Sada Tham Ganesam Namamo Bhajama. ॥ 5 ॥

Yatha Puthra Sampadhyatho, Vanchithartho, Yatho Aub hakthi Vignasthadha Anekarupa,
Yatho Soka Mohaou Yatha Kama Eva, Sada Tham Ganesam Namamo Bhajama. ॥ 6 ॥

Yatho Anantha Shakthi Sasesho BhAub huva, Dharadhararenakarupe Cha Shaktha,
Yatho Anekadha Swargalolka Hi Nana, Sada Tham Ganesam Namamo Bhajama. ॥ 7 ॥

Yatha Veda Vacho Vikunta Manobhi, Sada Nethinethiti Yatha Gunanthi,
Para Brahma Rupam Chidananda Bhutham, Sada Tham Ganesam Namamo Bhajama. ॥ 8 ॥

Phala Sruthi

Punaruche Ganadhisa Stotramedath Paden Nara,
Trisandhyam Tridinam Thasya Sarva Karyam Bhavishyathi.  ॥ 9 ॥

Yo Japeth Ashtadivasam Sloskashtakamidham Shubham,
Ashta Varam Chathurthyanthu So Ashta Sidheravapnuyath. ॥ 10 ॥

Sa Paden Masa Mathram Thu, Dasa Varam Dine Dine,
Sa Mochayed Bandhagatham Raja Vadhyam Na Samsaya. ॥ 11 ॥

Vidhya Kamo LAub ed Vidhyam, Puthrarthi Puthramapnuyath,
Vanchithan LAub hathe Sarvan, Ekavimsathi Varatha. ॥ 12 ॥

Yo Japed Paraya Bhakthya Gajanana Paro Nara,
Evamukthwa Thatho Devaschanthrdhanam Gatha PrAub hu. ॥ 13 ॥


ऐसे ही अन्य मधुर भजन देखें

Next Post Previous Post
No Comment
Add Comment
comment url