काराग्रे वसते लक्ष्मीः करमध्ये सरस्वती

काराग्रे वसते लक्ष्मीः करमध्ये सरस्वती प्रातः स्मरण

काराग्रे वसते लक्ष्मीः,
करमध्ये सरस्वती,
करमूले तू गोविन्दः,
प्रभाते करदर्शनम।

समुन्द्रवसने देवि,
पर्वतस्तनमण्डले,
विष्णुपत्नि नमस्तुभ्यं,
पादस्पर्शं क्षमस्व मे।
ब्रह्मा मुरारीस्त्रिपुरांतकारी,
भानुः शशि भूमिसुतो बुधश्च,
गुरुश्च शुक्रः शनिराहुकेतवेः,
कुर्वन्तु सर्वे मम सु प्रभातम।

सनत्कुमारः सनकः सनन्दनः,
सनातनोऽप्यासुरिपिङगलौ च।

सप्त स्वराः सप्त रसातलानि,
कुर्वन्तु सर्वे मम सुप्रभातम।

सप्तार्णवा सप्त कुलाचलाश्च,
सप्तर्षयो द्वीपवनानि सप्त,
भूरादिकृत्वा भुवनानि सप्त,
कुर्वन्तु सर्वे मम सुप्रभातम।

पृथ्वी सगन्धा सरसास्तथापः,
स्पर्शी च वायुज्र्वलनं च तेजः,
नभः सशब्दं महता सहैव,
कुर्वन्तु सर्वे मम सुप्रभातम।

प्रातः स्मरणमेतद्यो,
विदित्वादरतः पठेत,
स सम्यक्धर्मनिष्ठः स्यात,
अखण्डं भारतं स्मरेत।




Lakshmi Mata Bhajan/Mantra Pratah Smaranam (with lyrics) || प्रातः स्मरण || Morning Mantras ||
Next Post Previous Post