द्वादश ज्योतिर्लिंग स्तोत्रम लिरिक्स Dwadash Jyotirling Stotram Lyrics

द्वादश ज्योतिर्लिंग स्तोत्रम लिरिक्स Dwadash Jyotirling Stotram Lyrics

सौराष्ट्रदेशे विशदेतिरम्ये,
ज्योतिर्मयं चन्द्रकलावतंसम,
भक्तिप्रदानाय कृपावतीर्णं तं,
सोमनाथं शरणं प्रपद्ये।

श्रीशैलश्रृंगे विबुधातिसंगे,
तुलाद्रितुंगेपि मुदा वसन्तम,
तमर्जुनं मल्लिकापूर्वमेकं,
नमामि संसारसमुद्रसेतुम।

अवन्तिकायां विहितावतारं,
मुक्तिप्रदानाय च सज्जनानाम,
अकालमृत्यो: परिरक्षणार्थं,
वन्दे महाकालमहासुरेशम।

कावेरिकानर्मदयो: पवित्रे,
समागमे सज्जनतारणाय,
सदैव मान्धातृपुरे,
वसन्तमोंकारमीशं शिवमेकमीडे।

पूर्वोत्तरे प्रज्वलिकानिधाने,
सदा वसन्तं गिरिजासमेतम,
सुरासुराराधितपादपद्मं,
 श्रीवैद्यनाथं तमहं नमामि।

याम्ये सदंगे नगरेतिरम्ये,
विभूषितांग विविधैश्च भोगै:,
सद्भक्तिमुक्तिप्रदमीशमेकं,
श्रीनागनाथं शरणं प्रपद्ये।

महाद्रिपार्श्चे च तट रमन्तं,
सम्पूज्यमानं सततं मुनीन्द्रै:,
सुरासुरैर्यक्षमहोरगाद्यै:,
केदारमीशं शिवमेकमीडे।

सह्याद्रिशीर्षे विमले वसन्तं,
गोदावरीतीरपवित्रदेशे,
यद्दर्शनात्पातकमाशु नाशं,
प्रयाति तं त्र्यम्बकमीशमीडे।

सुताम्रपर्णीजलराशियोगे,
निबध्य सेतुं विशिखैरसंख्यै:,
श्रीरामचन्द्रेण समर्पितं,
तं रामेश्वराख्यं नियतं नमामि।

यं डाकिनीशाकिनिकासमाजे,
निषेव्यमाणं पिशिताशनैश्च,
सदैव भीमादिपदप्रसिद्धं,
तं शंकरं भक्तहितं नमामि।

सानन्दमानन्दवने,
वसन्तमानन्दकन्दं,
हतपापवृन्दम,
कवाराणसीनाथमनाथनाथं,
श्रीविश्वनाथं शरणं प्रपद्ये।

इलापुरे रम्यविशालकेस्मिन,
समुल्लसन्तं च जगद्वरेण्यम,
वन्दे महोदारतरस्वभावं घृष्णे,
श्वराख्यं शरणं प्रपद्ये।

ज्योतिर्मयद्वादशलिंगानां,
शिवात्मनां प्रोक्तमिदं क्रमेण,
स्तोत्रं पठित्वा मनुजोतिभक्त्या,
फलं तदालोक्य निजं भजेच्च।
 


द्वादश ज्योतिर्लिंग स्तोत्रम्। बारह ज्योतिर्लिंगो के दर्शन करने के समान फल प्राप्त करने के लिए गाएं।

Latest Bhajan Lyrics
Next Post Previous Post
No Comment
Add Comment
comment url