ऋणमोचन मंगल स्तोत्रम
श्रीमङ्गलाय नमः,
मङ्गलो भूमिपुत्रश्च,
ऋणहर्ता धनप्रदः,
स्थिरासनो महाकायः,
सर्वकर्मावरोधकः।
लोहितो लोहिताङ्गश्च,
सामगानां कृपाकरः,
धरात्मजः कुजो भौमो,
भूतिदो भूमिनन्दनः।
अङ्गारको यमश्चैव,
सर्वरोगापहारकः,
वृष्टे: कर्ताऽपहर्ता च,
सर्वकामफलप्रदः।
एतानि कुजनामानि,
नित्यं यः श्रद्धया पठेत्,
ऋणं न जायते तस्य,
धनं शीघ्रमवाप्नुयात्।
धरणीगर्भसम्भूतं,
विद्युत्कान्तिसमप्रभम्,
कुमारं शक्तिहस्तं च,
मङ्गलं प्रणमाम्यहम।
स्तोत्रमङ्गारकस्यैतत्,
पठनीयं सदा नृभिः,
न तेषां भौमजा पीडा,
स्वल्पाऽपि भवति क्वचित्।
अङ्गारक महाभाग,
भगवन् भक्तवत्सल,
त्वां नमामि,
ममाशेषमृणमाशु विनाशय।
अतिवक्र, दुराराध्य,
भोगमुक्तजितात्मनः,
तुष्टो ददासि साम्राज्यं,
रुष्टो हरसि तत्क्षणात्।
विरिञ्चिशक्रविष्णूनां,
मनुष्याणां तु का कथा,
तेन त्वं सर्वसत्वेन,
ग्रहराजो महाबलः।
पुत्रान्देहि धनं देहि,
त्वामस्मि शरणं गताः,
ऋणदारिद्रयदुःखेन,
शत्रूणां च भयात्ततः।
एभिर्द्वादशभिः श्लोकैर्यः,
स्तौति च धरासुतम्,
महतीं श्रियमाप्नोति,
ह्यपरो धनदो युवा।
Mangal Stotra with Hindi Lyrics | Daily Prayer for Kundali betterment | Raghav Dave
Latest Newest Bhajans Complete Lyrics in Hindi (New Bhajan)