कृष्ण स्तुति श्री नन्दकुमाराष्टकम् Krishna Stuti Shri Nandkumarashtakam Lyrics

कृष्ण स्तुति श्री नन्दकुमाराष्टकम् Krishna Stuti Shri Nandkumarashtakam Lyrics


कृष्ण स्तुति श्री नन्दकुमाराष्टकम् Krishna Stuti Shri Nandkumarashtakam Lyrics

सुंदरगोपालं उरवनमालं,
नयनविशालं दुःखहरम्,
वृन्दावनचन्द्रमानन्दकन्दं,
परमानन्दं धरणिधरम्।

वल्लभघनश्यामं पूर्णकामं,
अत्यभिरामं प्रीतिकरम्,
भज नन्दकुमारं सर्वसुखसारं,
तत्त्वविचारं ब्रह्मपरम्।

सुंदरवारिजवदनं निर्जितमदनं,
आनन्दसदनं मुकुटधरम्,
गुञ्जाकृतिहारं विपिनविहारं,
परमोदारं चीरहरम्।

वल्लभपटपीतं कृतउपवीतं,
करनवनीतं विबुधवरम्,
भज नन्दकुमारं सर्वसुखसारं,
तत्त्वविचारं ब्रह्मपरम्।

शोभितमुखधूलं यमुनाकूलं,
निपटअतूलं सुखदतरम्,
मुखमण्डितरेणुं चारितधेनुं,
वादितवेणुं मधुरसुरम्।

वल्लभमतिविमलं शुभपदकमलं,
नखरुचिअमलं तिमिरहरं,
भज नन्दकुमारं सर्वसुखसारं,
तत्त्वविचारं ब्रह्मपरम्।

शिरमुकुटसुदेशं कुञ्चितकेशं,
नटवरवेशं कामवरम्,
मायाकृतमनुजं हलधरअनुजं,
प्रतिहतद्नुजं भारहरम्।

वल्लभव्रजपालं सुभगसुचालं,
हितमनुकालं भाववरम्,
भज नन्दकुमारं सर्वसुखसारं,
तत्त्वविचारं ब्रह्मपरम्।

इंदीवरभासं प्रकटसुरासं,
कुसुमविकासं वंशिधरम्,
हृतमन्मथमानं रूपनिधानं,
कृतकलगानं चित्तहरम्।

वल्लभमृदुहासं कुञ्जनिवासं,
विविधविलासं केलिकरम्,
भज नन्दकुमारं सर्वसुखसारं,
तत्त्वविचारं ब्रह्मपरम्।

अतिपरप्रवीणं पालितदीनं,
भक्ताधीनं कर्मकरम्,
मोहनमतिधीरं फणिबलवीरं,
हतपरवीरं तरलतरम्।

वल्लभव्रजरमणं वारिजवदनं,
हलधरशमनं शैलधरम्,
भज नन्दकुमारं सर्वसुखसारं,
तत्त्वविचारं ब्रह्मपरम्।

जलधरद्युतिअंगं ललितत्रिभंगं,
बहुकृतरंगं रसिकवरम्,
गोकुलपरिवारं मदनाकारं,
कुञ्जविहारं गूढ़तरम्।

वल्लभव्रजचन्द्रं सुभगसुछन्दं,
कृतआनन्दं भ्रान्तिहरम्,
भज नन्दकुमारं सर्वसुखसारं,
तत्त्वविचारं ब्रह्मपरम्।

वन्दितयुगचरणं पावनकरणं,
जगदुद्धरणं विमलधरम्,
कालियशिरगमनं कृतफणिनमनं,
घातितयमनं मृदुलतरम्।

वल्लभदु:खहरणं निर्मलचरणं,
अशरणशरणं मुक्तिकरम्,
भज नन्दकुमारं सर्वसुखसारं,
तत्त्वविचारं ब्रह्मपरम्।


कृष्ण स्तुति । श्री नन्दकुमाराष्टकम् | Nandkumar Ashtakam | Shri Krishna Stuti |


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।




आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें