धीरसमीरे यमुनातीरे अष्टपदी गीतगोविंद
धीरसमीरे यमुनातीरे अष्टपदी गीतगोविंद
रतिसुखसारे गतमभिसारे,मदनमनोहरवेशम्,
न कुरु नितम्बिनि,
गमनविलम्बनमनुसर,
तं हृदयेशम्।
धीरसमीरे यमुनातीरे,
वसति वने वनमाली,
गोपीपीनपयोधरमर्दन,
चञ्चलकरयुगशाली।
नाम समेतं कृतसंकेतं,
वादयते मृदुवेणुम्,
बहु मनुते ननु ते,
तनुसंगतपवनचलितमपि रेणुम्।
पतति पतत्रे विचलति पत्रे,
शङ्कितभवदुपयानम्,
रचयति शयनं सचकितनयनं,
पश्यति तव पन्थानम्।
मुखरमधीरं त्यज मञ्जीरं,
रिपुमिव केलिसुलोलम,
चल सखि कुञ्जं सतिमिरपुञ्जं,
शीलय नीलनिचोलम्।
उरसि मुरारेरुपहितहारे,
घन इव तरलबलाके,
तडिदिव पीते रतिविपरीते,
राजसि सुकृतविपाके।
विगलितवसनं परिहृतरसनं,
घटय जघनमपिधानम्,
किसलयशयने पङ्कजनयने,
निधिमिव हर्षनिदानम्।
हरिरभिमानी,
रजनिरिदानीमियम,
पियाति विरामम्,
कुरु मम वचनं सत्वररचनं,
पूरय मधुरिपुकामम्।
श्रीजयदेवे कृतहरिसेवे,
भणति परमरमणीयम्,
प्रमुदितहृदयं हरिमतिसदयं,
नमत सुकृतकमनीयम्।
Dheera Sameere Yamuna Teere | geet govind | धीरसमीरे यमुनातीरे | गीतगोविंद | @krishnasankirtan