श्री मंगलचंडिकास्तोत्रम् Shri Mangalchandika Strotam Lyrics

श्री मंगलचंडिकास्तोत्रम् Shri Mangalchandika Strotam Lyrics

श्री मंगलचंडिकास्तोत्रम् Shri Mangalchandika Strotam Lyrics

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके,
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः।

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः,
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्।

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः,
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम्।

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम्,
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम।

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्,
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम्।

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्,
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम्।

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम्,
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम्।

संसारसागरे घोरे पोतरुपां वरां भजे।
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने,
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः।

शंकर उवाच
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके,
हारिके विपदां राशेर्हर्षमङ्गलकारिके।

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके,
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके।

मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले,
सतां मन्गलदे देवि सर्वेषां मन्गलालये।

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते,
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम्।

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले,
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि।

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम्,
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे।

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम्,
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः।

देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः,
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम्।

इति श्री ब्रह्मवैवर्ते,
श्री मंगल चंडिका स्तोत्रम् संपूर्णम्।


श्री मंगल चंडिका स्तोत्र || Mangal Chandika Stotra || मंगल दोष निवारण शादी–विवाह दोष निवारण


ऐसे ही अन्य भजनों के लिए आप होम पेज / गायक कलाकार के अनुसार भजनों को ढूंढें.
 

पसंदीदा गायकों के भजन खोजने के लिए यहाँ क्लिक करें।



आपको ये पोस्ट पसंद आ सकती हैं

एक टिप्पणी भेजें