देवि अपराधा क्षमापना स्तोत्रं लिरिक्स Devi Aparadha Kshamapana Stotram Lyrics


Latest Bhajan Lyrics

देवि अपराधा क्षमापना स्तोत्रं लिरिक्स Devi Aparadha Kshamapana Stotram Lyrics

॥ दॆव्यपराधक्षमापणा स्तॊत्रम्‌ ॥
न मंत्रं नॊ यंत्रं तदपि च न जानॆ स्तुतिमहॊ
न चाह्वानं ध्यानं तदपि च न जानॆ स्तुतिकथाः ।
न जानॆ मुद्रास्तॆ तदपि च न जानॆ विलपनं
परं जानॆ मातस्त्वदनुसरणं क्लॆशहरणम्‌ ॥ १ ॥

विधॆरज्ञानॆन द्रविणविरहॆणालसतया,
विधॆयाशक्यत्वात्तव चरणयॊर्या च्युतिरभूत्‌ ।
तदॆतत्‌ क्षंतव्यं जननि सकलॊद्धारिणि शिवॆ,
कुपुत्रॊ जायॆत क्वचिदपि कुमाता न भवति ॥ २ ॥

पृथिव्यां पुत्रास्तॆ जननि बहवः संति सरलाः,
परं तॆषां मध्यॆ विरलतरलॊऽहं तव सुतः ।
मदीयॊऽयं त्यागः समुचितमिदं नॊ तव शिवॆ,
कुपुत्रॊ जायॆत क्वचिदपि कुमाता न भवति ॥ ३ ॥

जगन्मातर्मातस्तव चरणसॆवा न रचिता,
न वा दत्तं दॆवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नॆहं मयि निरुपमं यत्प्रकुरुषॆ,
कुपुत्रॊ जायॆत क्वचिदपि कुमाता न भवति ॥ ४ ॥

परित्यक्त्वा दॆवान्‌ विविधविधसॆवाकुलतया,
मया पंचाशीतॆरधिकमपनीतॆ तु वयसि ।
इदानीं चॆन्मातस्तव यदि कृपा नापि भविता,
निरालंबॊ लंबॊदरजननि कं यामि शरणम्‌ ॥ ५ ॥

श्वपाकॊ जल्पाकॊ भवति मधुपाकॊपमगिरा,
निरातंकॊ रंकॊ विहरति चिरं कॊटिकनकैः ।
तवापर्णॆ कर्णॆ विशति मनुवर्णॆ फलमिदं,
जनः कॊ जानीतॆ जननि जपनीयं जपविधौ ॥ ६ ॥

चिताभस्मालॆपॊ गरलमशनं दिक्पटधरॊ,
जटाधारी कंठॆ भुजगपतिहारी पशुपतिः ।
कपाली भूतॆशॊ भजति जगदीशैकपदवीं,
भवानि त्वत्‌पाणिग्रहणपरिपाटीफलमिदम्‌ ॥ ७ ॥

न मॊक्षस्याकांक्षा भवविभववांछाऽपि च न मॆ,
न विज्ञानापॆक्षा शशिमुखि सुखॆच्छाऽपि न पुनः ।
अतस्त्वां संयाचॆ जननि जननं यातु मम वै,
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८ ॥

नाराधितासि विधिना विविधॊपचारैः,
किं रुक्षचिंतनपरैर्न कृतं वचॊभिः ।
श्यामॆ त्वमॆव यदि किंचन मय्यनाथॆ,
धत्सॆ कृपामुचितमंब परं तवैव ॥ ९ ॥

आपत्सु मग्नः स्मरणं त्वदीयं,
करॊमि दुर्गॆ करुणार्णवॆशि ।
नैतच्छठत्वं मम भावयॆथाः,
क्षुधातृषार्ता जननीं स्मरंति ॥ १० ॥

जगदंब विचित्रमत्र किं, परिपूर्णा करुणास्ति चॆन्मयि ।
अपराधपरंपरापरं, न हि माता समुपॆक्षतॆ सुतम्‌ ॥ ११ ॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
ऎवं ज्ञात्वा महादॆवि यथायॊग्यं तथा कुरु ॥

आपको ये पोस्ट पसंद आ सकती हैं
Next Post Previous Post
No Comment
Add Comment
comment url