मधुराष्टकम अधरं मधुरं वदनं मधुरं

मधुराष्टकम अधरं मधुरं वदनं मधुरं

अधरं मधुरं वदनं मधुरं , नयनं मधुरं हसितं मधुरं |
हृदयं मधुरं गमनं मधुरं , मधुराधिपते रखिलं मधुरं || १ ||

वचनं मधुरं चरितं मधुरं , वसनं मधुरं वलितं मधुरं |
चलितं मधुरं भ्रमितं मधुरं , मधुराधिपते रखिलं मधुरं || २ ||

वेणुर्मधुरो रेणुर्मधुर: , पाणिर्मधुर: पादौ मधुरौ |
नृत्यं मधुरं सख्यं मधुरं , मधुराधिपते रखिलं मधुरं || ३ ||

गीतं मधुरं पीतं मधुरं , भुक्तं मधुरं सुप्तं मधुरं |
रूपं मधुरं तिलकं मधुरं , मधुराधिपते रखिलं मधुरं || ४ ||

करणं मधुरं तरणं मधुरं , हरणं मधुरं स्मरणं मधुरं |
वमितं मधुरं शमितं , मधुराधिपते रखिलं मधुरं || ५ ||

गुञ्जा मधुरा माला , यमुना मधुरा वीची मधुरा |
सलिलं मधुरं कमलं मधुरं , मधुराधिपते रखिलं मधुरं || ६ ||

गोपी मधुरा लीला मधुरा , युक्तं मधुरं मुक्तं मधुरं |
दृष्टं मधुरं शिष्टं मधुरं , मधुराधिपते रखिलं मधुरं || ७ ||

गोपा मधुरा गावो मधुरा , यष्टिर्मधुरा सृष्टिर्मधुरा |
दलितं मधुरं फलितं , मधुराधिपते रखिलं मधुरं || ८ ||
|| इति श्रीमद् वल्लभाचार्य विरचितं मधुराष्टकं संपूर्णम् || 

 
भजन श्रेणी : कृष्ण भजन (Krishna Bhajan)

मधुराष्टकम लिरिक्स Adharam Madhuram(Krishna's) lips are sweet, (his) face is sweet, (his) eyes are sweet and (his) smile is sweet. (Krishna's) heart is sweet and (his) walk is sweet. Everything is sweet about the lord of (Krishna's) words are sweet, (his) character is sweet, (his) garments are sweet and (his) posture is sweet. (Krishna's) movements are sweet and (his) wandering is sweet. Everything is sweet about the lord of sweetness.
Next Post Previous Post